भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.048

3.048.01

सद्यो ह जातो वृषभः कनीनः प्रभर्तुम् आवद् अन्धसः सुतस्य ।
साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥

3.048.02

यज् जायथास् तद् अहर् अस्य कामे ऽंशोः पीयूषम् अपिबो गिरिष्ठाम् ।
तं ते माता परि योषा जनित्री महः पितुर् दम आसिञ्चद् अग्रे ॥

3.048.03

उपस्थाय मातरम् अन्नम् ऐट्ट तिग्मम् अपश्यद् अभि सोमम् ऊधः ।
प्रयावयन्न् अचरद् गृत्सो अन्यान् महानि चक्रे पुरुधप्रतीकः ॥

3.048.04

उग्रस् तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः ।
त्वष्टारम् इन्द्रो जनुषाभिभूयामुष्या सोमम् अपिबच् चमूषु ॥

3.048.05

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc