ऋग्वेद · अध्याय 3.047
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय ।
आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
सजोषा इन्द्र सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूँर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उत ऋतुभिर् ऋतुपाः पाहि सोमम् इन्द्र देवेभिः सखिभिः सुतं नः ।
याँ आभजो मरुतो ये त्वान्व् अहन् वृत्रम् अदधुस् तुभ्यम् ओजः ॥
ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ ।
ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0