भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.043

3.043.01

आ याह्य् अर्वाङ् उप वन्धुरेष्ठास् तवेद् अनु प्रदिवः सोमपेयम् ।
प्रिया सखाया वि मुचोप बर्हिस् त्वाम् इमे हव्यवाहो हवन्ते ॥

3.043.02

आ याहि पूर्वीर् अति चर्षणीर् आँ अर्य आशिष उप नो हरिभ्याम् ।
इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥

3.043.03

आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर् याहि तूयम् ।
अहं हि त्वा मतिभिर् जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥

3.043.04

आ च त्वाम् एता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
धानावद् इन्द्रः सवनं जुषाणः सखा सख्युः शृणवद् वन्दनानि ॥

3.043.05

कुविन् मा गोपां करसे जनस्य कुविद् राजानम् मघवन्न् ऋजीषिन् ।
कुविन् म ऋषिम् पपिवांसं सुतस्य कुविन् मे वस्वो अमृतस्य शिक्षाः ॥

3.043.06

आ त्वा बृहन्तो हरयो युजाना अर्वाग् इन्द्र सधमादो वहन्तु ।
प्र ये द्विता दिव ऋञ्जन्त्य् आताः सुसम्मृष्टासो वृषभस्य मूराः ॥

3.043.07

इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
यस्य मदे च्यावयसि प्र कृष्टीर् यस्य मदे अप गोत्रा ववर्थ ॥

3.043.08

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc