ऋग्वेद · अध्याय 3.042
उप नः सुतम् आ गहि सोमम् इन्द्र गवाशिरम् ।
हरिभ्यां यस् ते अस्मयुः ॥
तम् इन्द्र मदम् आ गहि बर्हिःष्ठां ग्रावभिः सुतम् ।
कुविन् न्व् अस्य तृप्णवः ॥
इन्द्रम् इत्था गिरो ममाच्छागुर् इषिता इतः ।
आवृते सोमपीतये ॥
इन्द्रं सोमस्य पीतये स्तोमैर् इह हवामहे ।
उक्थेभिः कुविद् आगमत् ॥
इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
जठरे वाजिनीवसो ॥
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
अधा ते सुम्नम् ईमहे ॥
इमम् इन्द्र गवाशिरं यवाशिरं च नः पिब ।
आगत्या वृषभिः सुतम् ॥
तुभ्येद् इन्द्र स्व ओक्ये3 सोमं चोदामि पीतये ।
एष रारन्तु ते हृदि ॥
त्वां सुतस्य पीतये प्रत्नम् इन्द्र हवामहे ।
कुशिकासो अवस्यवः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0