भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.041

3.041.01

आ तू न इन्द्र मद्र्यग् घुवानः सोमपीतये ।
हरिभ्यां याह्य् अद्रिवः ॥

3.041.02

सत्तो होता न ऋत्वियस् तिस्तिरे बर्हिर् आनुषक् ।
अयुज्रन् प्रातर् अद्रयः ॥

3.041.03

इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
वीहि शूर पुरोळाशम् ॥

3.041.04

रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
उक्थेष्व् इन्द्र गिर्वणः ॥

3.041.05

मतयः सोमपाम् उरुं रिहन्ति शवसस् पतिम् ।
इन्द्रं वत्सं न मातरः ॥

3.041.06

स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे ।
न स्तोतारं निदे करः ॥

3.041.07

वयम् इन्द्र त्वायवो हविष्मन्तो जरामहे ।
उत त्वम् अस्मयुर् वसो ॥

3.041.08

मारे अस्मद् वि मुमुचो हरिप्रियार्वाङ् याहि ।
इन्द्र स्वधावो मत्स्वेह ॥

3.041.09

अर्वाञ्चं त्वा सुखे रथे वहताम् इन्द्र केशिना ।
घृतस्नू बर्हिर् आसदे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc