भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.040

3.040.01

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
स पाहि मध्वो अन्धसः ॥

3.040.02

इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम् ॥

3.040.03

इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर् देवेभिः ।
तिर स्तवान विश्पते ॥

3.040.04

इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
क्षयं चन्द्रास इन्दवः ॥

3.040.05

दधिष्वा जठरे सुतं सोमम् इन्द्र वरेण्यम् ।
तव द्युक्षास इन्दवः ॥

3.040.06

गिर्वणः पाहि नः सुतम् मधोर् धाराभिर् अज्यसे ।
इन्द्र त्वादातम् इद् यशः ॥

3.040.07

अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
पीत्वी सोमस्य वावृधे ॥

3.040.08

अर्वावतो न आ गहि परावतश् च वृत्रहन् ।
इमा जुषस्व नो गिरः ॥

3.040.09

यद् अन्तरा परावतम् अर्वावतं च हूयसे ।
इन्द्रेह तत आ गहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc