भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.039

3.039.01

इन्द्रम् मतिर् हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
या जागृविर् विदथे शस्यमानेन्द्र यत् ते जायते विद्धि तस्य ॥

3.039.02

दिवश् चिद् आ पूर्व्या जायमाना वि जागृविर् विदथे शस्यमाना ।
भद्रा वस्त्राण्य् अर्जुना वसाना सेयम् अस्मे सनजा पित्र्या धीः ॥

3.039.03

यमा चिद् अत्र यमसूर् असूत जिह्वाया अग्रम् पतद् आ ह्य् अस्थात् ।
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥

3.039.04

नकिर् एषां निन्दिता मर्त्येषु ये अस्माकम् पितरो गोषु योधाः ।
इन्द्र एषां दृंहिता माहिनावान् उद् गोत्राणि ससृजे दंसनावान् ॥

3.039.05

सखा ह यत्र सखिभिर् नवग्वैर् अभिज्ञ्व् आ सत्वभिर् गा अनुग्मन् ।
सत्यं तद् इन्द्रो दशभिर् दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥

3.039.06

इन्द्रो मधु सम्भृतम् उस्रियायाम् पद्वद् विवेद शफवन् नमे गोः ।
गुहा हितं गुह्यं गूळ्हम् अप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥

3.039.07

ज्योतिर् वृणीत तमसो विजानन्न् आरे स्याम दुरिताद् अभीके ।
इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥

3.039.08

ज्योतिर् यज्ञाय रोदसी अनु ष्याद् आरे स्याम दुरितस्य भूरेः ।
भूरि चिद् धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥

3.039.09

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc