ऋग्वेद · अध्याय 3.038
अभि तष्टेव दीधया मनीषाम् अत्यो न वाजी सुधुरो जिहानः ।
अभि प्रियाणि मर्मृशत् पराणि कवीँर् इच्छामि संदृशे सुमेधाः ॥
इनोत पृच्छ जनिमा कवीनाम् मनोधृतः सुकृतस् तक्षत द्याम् ।
इमा उ ते प्रण्यो3 वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥
नि षीम् इद् अत्र गुह्या दधाना उत क्षत्राय रोदसी सम् अञ्जन् ।
सम् मात्राभिर् ममिरे येमुर् उर्वी अन्तर् मही समृते धायसे धुः ॥
आतिष्ठन्तम् परि विश्वे अभूषञ् छ्रियो वसानश् चरति स्वरोचिः ।
महत् तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
असूत पूर्वो वृषभो ज्यायान् इमा अस्य शुरुधः सन्ति पूर्वीः ।
दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥
त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
अपश्यम् अत्र मनसा जगन्वान् व्रते गन्धर्वाँ अपि वायुकेशान् ॥
तद् इन् न्व् अस्य वृषभस्य धेनोर् आ नामभिर् ममिरे सक्म्यं गोः ।
अन्यद्-अन्यद् असुर्य1ं वसाना नि मायिनो ममिरे रूपम् अस्मिन् ॥
तद् इन् न्व् अस्य सवितुर् नकिर् मे हिरण्ययीम् अमतिं याम् अशिश्रेत् ।
आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥
युवम् प्रत्नस्य साधथो महो यद् दैवी स्वस्तिः परि णः स्यातम् ।
गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0