भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.037

3.037.01

वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
इन्द्र त्वा वर्तयामसि ॥

3.037.02

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
इन्द्र कृण्वन्तु वाघतः ॥

3.037.03

नामानि ते शतक्रतो विश्वाभिर् गीर्भिर् ईमहे ।
इन्द्राभिमातिषाह्ये ॥

3.037.04

पुरुष्टुतस्य धामभिः शतेन महयामसि ।
इन्द्रस्य चर्षणीधृतः ॥

3.037.05

इन्द्रं वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे ।
भरेषु वाजसातये ॥

3.037.06

वाजेषु सासहिर् भव त्वाम् ईमहे शतक्रतो ।
इन्द्र वृत्राय हन्तवे ॥

3.037.07

द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।
इन्द्र साक्ष्वाभिमातिषु ॥

3.037.08

शुष्मिन्तमं न ऊतये द्युम्निनम् पाहि जागृविम् ।
इन्द्र सोमं शतक्रतो ॥

3.037.09

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे ॥

3.037.10

अगन्न् इन्द्र श्रवो बृहद् द्युम्नं दधिष्व दुष्टरम् ।
उत् ते शुष्मं तिरामसि ॥

3.037.11

अर्वावतो न आ गह्य् अथो शक्र परावतः ।
उ लोको यस् ते अद्रिव इन्द्रेह तत आ गहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc