भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.036

3.036.01

इमाम् ऊ षु प्रभृतिं सातये धाः शश्वच्-छश्वद् ऊतिभिर् यादमानः ।
सुते-सुते वावृधे वर्धनेभिर् यः कर्मभिर् महद्भिः सुश्रुतो भूत् ॥

3.036.02

इन्द्राय सोमाः प्रदिवो विदाना ऋभुर् येभिर् वृषपर्वा विहायाः ।
प्रयम्यमानान् प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥

3.036.03

पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
यथापिबः पूर्व्याँ इन्द्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥

3.036.04

महाँ अमत्रो वृजने विरप्श्य् उ1ग्रं शवः पत्यते धृष्ण्व् ओजः ।
नाह विव्याच पृथिवी चनैनं यत् सोमासो हर्यश्वम् अमन्दन् ॥

3.036.05

महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥

3.036.06

प्र यत् सिन्धवः प्रसवं यथायन्न् आपः समुद्रं रथ्येव जग्मुः ।
अतश् चिद् इन्द्रः सदसो वरीयान् यद् ईं सोमः पृणति दुग्धो अंशुः ॥

3.036.07

समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतम् भरन्तः ।
अंशुं दुहन्ति हस्तिनो भरित्रैर् मध्वः पुनन्ति धारया पवित्रैः ॥

3.036.08

ह्रदा इव कुक्षयः सोमधानाः सम् ई विव्याच सवना पुरूणि ।
अन्ना यद् इन्द्रः प्रथमा व्य् आश वृत्रं जघन्वाँ अवृणीत सोमम् ॥

3.036.09

आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् ।
इन्द्र यत् ते माहिनं दत्रम् अस्त्य् अस्मभ्यं तद् धर्यश्व प्र यन्धि ॥

3.036.10

अस्मे प्र यन्धि मघवन्न् ऋजीषिन्न् इन्द्र रायो विश्ववारस्य भूरेः ।
अस्मे शतं शरदो जीवसे धा अस्मे वीराञ् छश्वत इन्द्र शिप्रिन् ॥

3.036.11

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc