भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.035

3.035.01

तिष्ठा हरी रथ आ युज्यमाना याहि वायुर् न नियुतो नो अच्छ ।
पिबास्य् अन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥

3.035.02

उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्व् आ युनज्मि ।
द्रवद् यथा सम्भृतं विश्वतश् चिद् उपेमं यज्ञम् आ वहात इन्द्रम् ॥

3.035.03

उपो नयस्व वृषणा तपुष्पोतेम् अव त्वं वृषभ स्वधावः ।
ग्रसेताम् अश्वा वि मुचेह शोणा दिवे-दिवे सदृशीर् अद्धि धानाः ॥

3.035.04

ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
स्थिरं रथं सुखम् इन्द्राधितिष्ठन् प्रजानन् विद्वाँ उप याहि सोमम् ॥

3.035.05

मा ते हरी वृषणा वीतपृष्ठा नि रीरमन् यजमानासो अन्ये ।
अत्यायाहि शश्वतो वयं ते ऽरं सुतेभिः कृणवाम सोमैः ॥

3.035.06

तवायं सोमस् त्वम् एह्य् अर्वाङ् छश्वत्तमं सुमना अस्य पाहि ।
अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर इन्दुम् इन्द्र ॥

3.035.07

स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥

3.035.08

इमं नरः पर्वतास् तुभ्यम् आपः सम् इन्द्र गोभिर् मधुमन्तम् अक्रन् ।
तस्यागत्या सुमना ऋष्व पाहि प्रजानन् विद्वान् पथ्या3 अनु स्वाः ॥

3.035.09

याँ आभजो मरुत इन्द्र सोमे ये त्वाम् अवर्धन्न् अभवन् गणस् ते ।
तेभिर् एतं सजोषा वावशानो3 ऽग्नेः पिब जिह्वया सोमम् इन्द्र ॥

3.035.10

इन्द्र पिब स्वधया चित् सुतस्याग्नेर् वा पाहि जिह्वया यजत्र ।
अध्वर्योर् वा प्रयतं शक्र हस्ताद् धोतुर् वा यज्ञं हविषो जुषस्व ॥

3.035.11

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc