ऋग्वेद · अध्याय 3.034
इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैर् विदद्वसुर् दयमानो वि शत्रून् ।
ब्रह्मजूतस् तन्वा वावृधानो भूरिदात्र आपृणद् रोदसी उभे ॥
मखस्य ते तविषस्य प्र जूतिम् इयर्मि वाचम् अमृताय भूषन् ।
इन्द्र क्षितीनाम् असि मानुषीणां विशां दैवीनाम् उत पूर्वयावा ॥
इन्द्रो वृत्रम् अवृणोच् छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः ।
अहन् व्यंसम् उशधग् वनेष्व् आविर् धेना अकृणोद् राम्याणाम् ॥
इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
प्रारोचयन् मनवे केतुम् अह्नाम् अविन्दज् ज्योतिर् बृहते रणाय ॥
इन्द्रस् तुजो बर्हणा आ विवेश नृवद् दधानो नर्या पुरूणि ।
अचेतयद् धिय इमा जरित्रे प्रेमं वर्णम् अतिरच् छुक्रम् आसाम् ॥
महो महानि पनयन्त्य् अस्येन्द्रस्य कर्म सुकृता पुरूणि ।
वृजनेन वृजिनान् सम् पिपेष मायाभिर् दस्यूँर् अभिभूत्योजाः ॥
युधेन्द्रो मह्ना वरिवश् चकार देवेभ्यः सत्पतिश् चर्षणिप्राः ।
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वर् अपश् च देवीः ।
ससान यः पृथिवीं द्याम् उतेमाम् इन्द्रम् मदन्त्य् अनु धीरणासः ॥
ससानात्याँ उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
हिरण्ययम् उत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णम् आवत् ॥
इन्द्र ओषधीर् असनोद् अहानि वनस्पतीँर् असनोद् अन्तरिक्षम् ।
बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0