भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.033

3.033.01

प्र पर्वतानाम् उशती उपस्थाद् अश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥

3.033.02

इन्द्रेषिते प्रसवम् भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
समाराणे ऊर्मिभिः पिन्वमाने अन्या वाम् अन्याम् अप्य् एति शुभ्रे ॥

3.033.03

अच्छा सिन्धुम् मातृतमाम् अयासं विपाशम् उर्वीं सुभगाम् अगन्म ।
वत्सम् इव मातरा संरिहाणे समानं योनिम् अनु संचरन्ती ॥

3.033.04

एना वयम् पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
न वर्तवे प्रसवः सर्गतक्तः किंयुर् विप्रो नद्यो जोहवीति ॥

3.033.05

रमध्वम् मे वचसे सोम्याय ऋतावरीर् उप मुहूर्तम् एवैः ।
प्र सिन्धुम् अच्छा बृहती मनीषावस्युर् अह्वे कुशिकस्य सूनुः ॥

3.033.06

इन्द्रो अस्माँ अरदद् वज्रबाहुर् अपाहन् वृत्रम् परिधिं नदीनाम् ।
देवो ऽनयत् सविता सुपाणिस् तस्य वयम् प्रसवे याम उर्वीः ॥

3.033.07

प्रवाच्यं शश्वधा वीर्य1ं तद् इन्द्रस्य कर्म यद् अहिं विवृश्चत् ।
वि वज्रेण परिषदो जघानायन्न् आपो ऽयनम् इच्छमानाः ॥

3.033.08

एतद् वचो जरितर् मापि मृष्ठा आ यत् ते घोषान् उत्तरा युगानि ।
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस् ते ॥

3.033.09

ओ षु स्वसारः कारवे शृणोत ययौ वो दूराद् अनसा रथेन ।
नि षू नमध्वम् भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥

3.033.10

आ ते कारो शृणवामा वचांसि ययाथ दूराद् अनसा रथेन ।
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥

3.033.11

यद् अङ्ग त्वा भरताः संतरेयुर् गव्यन् ग्राम इषित इन्द्रजूतः ।
अर्षाद् अह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥

3.033.12

अतारिषुर् भरता गव्यवः सम् अभक्त विप्रः सुमतिं नदीनाम् ।
प्र पिन्वध्वम् इषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥

3.033.13

उद् व ऊर्मिः शम्या हन्त्व् आपो योक्त्राणि मुञ्चत ।
मादुष्कृतौ व्येनसाघ्न्यौ शूनम् आरताम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc