भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.032

3.032.01

इन्द्र सोमं सोमपते पिबेमम् माध्यंदिनं सवनं चारु यत् ते ।
प्रप्रुथ्या शिप्रे मघवन्न् ऋजीषिन् विमुच्या हरी इह मादयस्व ॥

3.032.02

गवाशिरम् मन्थिनम् इन्द्र शुक्रम् पिबा सोमं ररिमा ते मदाय ।
ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस् तृपद् आ वृषस्व ॥

3.032.03

ये ते शुष्मं ये तविषीम् अवर्धन्न् अर्चन्त इन्द्र मरुतस् त ओजः ।
माध्यंदिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥

3.032.04

त इन् न्व् अस्य मधुमद् विविप्र इन्द्रस्य शर्धो मरुतो य आसन् ।
येभिर् वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥

3.032.05

मनुष्वद् इन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिर् अपो अर्णा सिसर्षि ॥

3.032.06

त्वम् अपो यद् ध वृत्रं जघन्वाँ अत्याँ इव प्रासृजः सर्तवाजौ ।
शयानम् इन्द्र चरता वधेन वव्रिवांसम् परि देवीर् अदेवम् ॥

3.032.07

यजाम इन् नमसा वृद्धम् इन्द्रम् बृहन्तम् ऋष्वम् अजरं युवानम् ।
यस्य प्रिये ममतुर् यज्ञियस्य न रोदसी महिमानम् ममाते ॥

3.032.08

इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे ।
दाधार यः पृथिवीं द्याम् उतेमां जजान सूर्यम् उषसं सुदंसाः ॥

3.032.09

अद्रोघ सत्यं तव तन् महित्वं सद्यो यज् जातो अपिबो ह सोमम् ।
न द्याव इन्द्र तवसस् त ओजो नाहा न मासाः शरदो वरन्त ॥

3.032.10

त्वं सद्यो अपिबो जात इन्द्र मदाय सोमम् परमे व्योमन् ।
यद् ध द्यावापृथिवी आविवेशीर् अथाभवः पूर्व्यः कारुधायाः ॥

3.032.11

अहन्न् अहिम् परिशयानम् अर्ण ओजायमानं तुविजात तव्यान् ।
न ते महित्वम् अनु भूद् अध द्यौर् यद् अन्यया स्फिग्या3 क्षाम् अवस्थाः ॥

3.032.12

यज्ञो हि त इन्द्र वर्धनो भूद् उत प्रियः सुतसोमो मियेधः ।
यज्ञेन यज्ञम् अव यज्ञियः सन् यज्ञस् ते वज्रम् अहिहत्य आवत् ॥

3.032.13

यज्ञेनेन्द्रम् अवसा चक्रे अर्वाग् ऐनं सुम्नाय नव्यसे ववृत्याम् ।
यः स्तोमेभिर् वावृधे पूर्व्येभिर् यो मध्यमेभिर् उत नूतनेभिः ॥

3.032.14

विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः ।
अंहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥

3.032.15

आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
सम् उ प्रिया आववृत्रन् मदाय प्रदक्षिणिद् अभि सोमास इन्द्रम् ॥

3.032.16

न त्वा गभीरः पुरुहूत सिन्धुर् नाद्रयः परि षन्तो वरन्त ।
इत्था सखिभ्य इषितो यद् इन्द्रा दृळ्हं चिद् अरुजो गव्यम् ऊर्वम् ॥

3.032.17

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc