भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.031

3.031.01

शासद् वह्निर् दुहितुर् नप्त्यं गाद् विद्वाँ ऋतस्य दीधितिं सपर्यन् ।
पिता यत्र दुहितुः सेकम् ऋञ्जन् सं शग्म्येन मनसा दधन्वे ॥

3.031.02

न जामये तान्वो रिक्थम् आरैक् चकार गर्भं सनितुर् निधानम् ।
यदी मातरो जनयन्त वह्निम् अन्यः कर्ता सुकृतोर् अन्य ऋन्धन् ॥

3.031.03

अग्निर् जज्ञे जुह्वा3 रेजमानो महस् पुत्राँ अरुषस्य प्रयक्षे ।
महान् गर्भो मह्य् आ जातम् एषाम् मही प्रवृद् धर्यश्वस्य यज्ञैः ॥

3.031.04

अभि जैत्रीर् असचन्त स्पृधानम् महि ज्योतिस् तमसो निर् अजानन् ।
तं जानतीः प्रत्य् उद् आयन्न् उषासः पतिर् गवाम् अभवद् एक इन्द्रः ॥

3.031.05

वीळौ सतीर् अभि धीरा अतृन्दन् प्राचाहिन्वन् मनसा सप्त विप्राः ।
विश्वाम् अविन्दन् पथ्याम् ऋतस्य प्रजानन्न् इत् ता नमसा विवेश ॥

3.031.06

विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवम् प्रथमा जानती गात् ॥

3.031.07

अगच्छद् उ विप्रतमः सखीयन्न् असूदयत् सुकृते गर्भम् अद्रिः ।
ससान मर्यो युवभिर् मखस्यन्न् अथाभवद् अङ्गिराः सद्यो अर्चन् ॥

3.031.08

सतः-सतः प्रतिमानम् पुरोभूर् विश्वा वेद जनिमा हन्ति शुष्णम् ।
प्र णो दिवः पदवीर् गव्युर् अर्चन् सखा सखीँर् अमुञ्चन् निर् अवद्यात् ॥

3.031.09

नि गव्यता मनसा सेदुर् अर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
इदं चिन् नु सदनम् भूर्य् एषां येन मासाँ असिषासन्न् ऋतेन ॥

3.031.10

सम्पश्यमाना अमदन्न् अभि स्वम् पयः प्रत्नस्य रेतसो दुघानाः ।
वि रोदसी अतपद् घोष एषां जाते निष्ठाम् अदधुर् गोषु वीरान् ॥

3.031.11

स जातेभिर् वृत्रहा सेद् उ हव्यैर् उद् उस्रिया असृजद् इन्द्रो अर्कैः ।
उरूच्य् अस्मै घृतवद् भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥

3.031.12

पित्रे चिच् चक्रुः सदनं सम् अस्मै महि त्विषीमत् सुकृतो वि हि ख्यन् ।
विष्कभ्नन्तः स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥

3.031.13

मही यदि धिषणा शिश्नथे धात् सद्योवृधं विभ्व1ं रोदस्योः ।
गिरो यस्मिन्न् अनवद्याः समीचीर् विश्वा इन्द्राय तविषीर् अनुत्ताः ॥

3.031.14

मह्य् आ ते सख्यं वश्मि शक्तीर् आ वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
महि स्तोत्रम् अव आगन्म सूरेर् अस्माकं सु मघवन् बोधि गोपाः ॥

3.031.15

महि क्षेत्रम् पुरु श्चन्द्रं विविद्वान् आद् इत् सखिभ्यश् चरथं सम् ऐरत् ।
इन्द्रो नृभिर् अजनद् दीद्यानः साकं सूर्यम् उषसं गातुम् अग्निम् ॥

3.031.16

अपश् चिद् एष विभ्वो3 दमूनाः प्र सध्रीचीर् असृजद् विश्वश्चन्द्राः ।
मध्वः पुनानाः कविभिः पवित्रैर् द्युभिर् हिन्वन्त्य् अक्तुभिर् धनुत्रीः ॥

3.031.17

अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
परि यत् ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥

3.031.18

पतिर् भव वृत्रहन् सूनृतानां गिरां विश्वायुर् वृषभो वयोधाः ।
आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ॥

3.031.19

तम् अङ्गिरस्वन् नमसा सपर्यन् नव्यं कृणोमि सन्यसे पुराजाम् ।
द्रुहो वि याहि बहुला अदेवीः स्वश् च नो मघवन् सातये धाः ॥

3.031.20

मिहः पावकाः प्रतता अभूवन् स्वस्ति नः पिपृहि पारम् आसाम् ।
इन्द्र त्वं रथिरः पाहि नो रिषो मक्षू-मक्षू कृणुहि गोजितो नः ॥

3.031.21

अदेदिष्ट वृत्रहा गोपतिर् गा अन्तः कृष्णाँ अरुषैर् धामभिर् गात् ।
प्र सूनृता दिशमान ऋतेन दुरश् च विश्वा अवृणोद् अप स्वाः ॥

3.031.22

शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc