ऋग्वेद · अध्याय 3.030
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
तितिक्षन्ते अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥
न ते दूरे परमा चिद् रजांस्य् आ तु प्र याहि हरिवो हरिभ्याम् ।
स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥
इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस् तुविकूर्मिर् ऋघावान् ।
यद् उग्रो धा बाधितो मर्त्येषु क्व1 त्या ते वृषभ वीर्याणि ॥
त्वं हि ष्मा च्यावयन्न् अच्युतान्य् एको वृत्रा चरसि जिघ्नमानः ।
तव द्यावापृथिवी पर्वतासो ऽनु व्रताय निमितेव तस्थुः ॥
उताभये पुरुहूत श्रवोभिर् एको दृळ्हम् अवदो वृत्रहा सन् ।
इमे चिद् इन्द्र रोदसी अपारे यत् संगृभ्णा मघवन् काशिर् इत् ते ॥
प्र सू त इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टम् अस्तु ॥
यस्मै धायुर् अदधा मर्त्यायाभक्तं चिद् भजते गेह्य1ं सः ।
भद्रा त इन्द्र सुमतिर् घृताची सहस्रदाना पुरुहूत रातिः ॥
सहदानुम् पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सम् पिणक् कुणारुम् ।
अभि वृत्रं वर्धमानम् पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥
नि सामनाम् इषिराम् इन्द्र भूमिम् महीम् अपारां सदने ससत्थ ।
अस्तभ्नाद् द्यां वृषभो अन्तरिक्षम् अर्षन्त्व् आपस् त्वयेह प्रसूताः ॥
अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर् भयमानो व्य् आर ।
सुगान् पथो अकृणोन् निरजे गाः प्रावन् वाणीः पुरुहूतं धमन्तीः ॥
एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीम् उत द्याम् ।
उतान्तरिक्षाद् अभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥
दिशः सूर्यो न मिनाति प्रदिष्टा दिवे-दिवे हर्यश्वप्रसूताः ।
सं यद् आनळ् अध्वन आद् इद् अश्वैर् विमोचनं कृणुते तत् त्व् अस्य ॥
दिदृक्षन्त उषसो यामन्न् अक्तोर् विवस्वत्या महि चित्रम् अनीकम् ।
विश्वे जानन्ति महिना यद् आगाद् इन्द्रस्य कर्म सुकृता पुरूणि ॥
महि ज्योतिर् निहितं वक्षणास्व् आमा पक्वं चरति बिभ्रती गौः ।
विश्वं स्वाद्म सम्भृतम् उस्रियायां यत् सीम् इन्द्रो अदधाद् भोजनाय ॥
इन्द्र दृह्य यामकोशा अभूवन् यज्ञाय शिक्ष गृणते सखिभ्यः ।
दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥
सं घोषः शृण्वे ऽवमैर् अमित्रैर् जही न्य् एष्व् अशनिं तपिष्ठाम् ।
वृश्चेम् अधस्ताद् वि रुजा सहस्व जहि रक्षो मघवन् रन्धयस्व ॥
उद् वृह रक्षः सहमूलम् इन्द्र वृश्चा मध्यम् प्रत्य् अग्रं शृणीहि ।
आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिम् अस्य ॥
स्वस्तये वाजिभिश् च प्रणेतः सं यन् महीर् इष आसत्सि पूर्वीः ।
रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥
आ नो भर भगम् इन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
ऊर्व इव पप्रथे कामो अस्मे तम् आ पृण वसुपते वसूनाम् ॥
इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च ।
स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
आ नो गोत्रा दर्दृहि गोपते गाः सम् अस्मभ्यं सनयो यन्तु वाजाः ।
दिवक्षा असि वृषभ सत्यशुष्मो ऽस्मभ्यं सु मघवन् बोधि गोदाः ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0