ऋग्वेद · अध्याय 3.029
अस्तीदम् अधिमन्थनम् अस्ति प्रजननं कृतम् ।
एतां विश्पत्नीम् आ भराग्निम् मन्थाम पूर्वथा ॥
अरण्योर् निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवे-दिव ईड्यो जागृवद्भिर् हविष्मद्भिर् मनुष्येभिर् अग्निः ॥
उत्तानायाम् अव भरा चिकित्वान् सद्यः प्रवीता वृषणं जजान ।
अरुषस्तूपो रुशद् अस्य पाज इळायास् पुत्रो वयुने ऽजनिष्ट ॥
इळायास् त्वा पदे वयं नाभा पृथिव्या अधि ।
जातवेदो नि धीमह्य् अग्ने हव्याय वोळ्हवे ॥
मन्थता नरः कविम् अद्वयन्तम् प्रचेतसम् अमृतं सुप्रतीकम् ।
यज्ञस्य केतुम् प्रथमम् पुरस्ताद् अग्निं नरो जनयता सुशेवम् ॥
यदी मन्थन्ति बाहुभिर् वि रोचते ऽश्वो न वाज्य् अरुषो वनेष्व् आ ।
चित्रो न यामन्न् अश्विनोर् अनिवृतः परि वृणक्त्य् अश्मनस् तृणा दहन् ॥
जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
यं देवास ईड्यं विश्वविदं हव्यवाहम् अदधुर् अध्वरेषु ॥
सीद होतः स्व उ लोके चिकित्वान् सादया यज्ञं सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजम् अच्छ ।
अयम् अग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्न् अग्न आ सीदाथा नो वर्धया गिरः ॥
तनूनपाद् उच्यते गर्भ आसुरो नराशंसो भवति यद् विजायते ।
मातरिश्वा यद् अमिमीत मातरि वातस्य सर्गो अभवत् सरीमणि ॥
सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
अग्ने स्वध्वरा कृणु देवान् देवयते यज ॥
अजीजनन्न् अमृतम् मर्त्यासो ऽस्रेमाणं तरणिं वीळुजम्भम् ।
दश स्वसारो अग्रुवः समीचीः पुमांसं जातम् अभि सं रभन्ते ॥
प्र सप्तहोता सनकाद् अरोचत मातुर् उपस्थे यद् अशोचद् ऊधनि ।
न नि मिषति सुरणो दिवे-दिवे यद् असुरस्य जठराद् अजायत ॥
अमित्रायुधो मरुताम् इव प्रयाः प्रथमजा ब्रह्मणो विश्वम् इद् विदुः ।
द्युम्नवद् ब्रह्म कुशिकास एरिर एक-एको दमे अग्निं सम् ईधिरे ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वो ऽवृणीमहीह ।
ध्रुवम् अया ध्रुवम् उताशमिष्ठाः प्रजानन् विद्वाँ उप याहि सोमम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0