भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.028

3.028.01

अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
प्रातःसावे धियावसो ॥

3.028.02

पुरोळा अग्ने पचतस् तुभ्यं वा घा परिष्कृतः ।
तं जुषस्व यविष्ठ्य ॥

3.028.03

अग्ने वीहि पुरोळाशम् आहुतं तिरोअह्न्यम् ।
सहसः सूनुर् अस्य् अध्वरे हितः ॥

3.028.04

माध्यंदिने सवने जातवेदः पुरोळाशम् इह कवे जुषस्व ।
अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥

3.028.05

अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनव् आहुतम् ।
अथा देवेष्व् अध्वरं विपन्यया धा रत्नवन्तम् अमृतेषु जागृविम् ॥

3.028.06

अग्ने वृधान आहुतिम् पुरोळाशं जातवेदः ।
जुषस्व तिरोअह्न्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc