भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.027

3.027.01

प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
देवाञ् जिगाति सुम्नयुः ॥

3.027.02

ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
श्रुष्टीवानं धितावानम् ॥

3.027.03

अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
अति द्वेषांसि तरेम ॥

3.027.04

समिध्यमानो अध्वरे3 ऽग्निः पावक ईड्यः ।
शोचिष्केशस् तम् ईमहे ॥

3.027.05

पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः ।
अग्निर् यज्ञस्य हव्यवाट् ॥

3.027.06

तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
आ चक्रुर् अग्निम् ऊतये ॥

3.027.07

होता देवो अमर्त्यः पुरस्ताद् एति मायया ।
विदथानि प्रचोदयन् ॥

3.027.08

वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते ।
विप्रो यज्ञस्य साधनः ॥

3.027.09

धिया चक्रे वरेण्यो भूतानां गर्भम् आ दधे ।
दक्षस्य पितरं तना ॥

3.027.10

नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
अग्ने सुदीतिम् उशिजम् ॥

3.027.11

अग्निं यन्तुरम् अप्तुरम् ऋतस्य योगे वनुषः ।
विप्रा वाजैः सम् इन्धते ॥

3.027.12

ऊर्जो नपातम् अध्वरे दीदिवांसम् उप द्यवि ।
अग्निम् ईळे कविक्रतुम् ॥

3.027.13

ईळेन्यो नमस्यस् तिरस् तमांसि दर्शतः ।
सम् अग्निर् इध्यते वृषा ॥

3.027.14

वृषो अग्निः सम् इध्यते ऽश्वो न देववाहनः ।
तं हविष्मन्त ईळते ॥

3.027.15

वृषणं त्वा वयं वृषन् वृषणः सम् इधीमहि ।
अग्ने दीद्यतम् बृहत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc