भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.026

3.026.01

वैश्वानरम् मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥

3.026.02

तं शुभ्रम् अग्निम् अवसे हवामहे वैश्वानरम् मातरिश्वानम् उक्थ्यम् ।
बृहस्पतिम् मनुषो देवतातये विप्रं श्रोतारम् अतिथिं रघुष्यदम् ॥

3.026.03

अश्वो न क्रन्दञ् जनिभिः सम् इध्यते वैश्वानरः कुशिकेभिर् युगे-युगे ।
स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नम् अमृतेषु जागृविः ॥

3.026.04

प्र यन्तु वाजास् तविषीभिर् अग्नयः शुभे सम्मिश्लाः पृषतीर् अयुक्षत ।
बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः ॥

3.026.05

अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषम् उग्रम् अव ईमहे वयम् ।
ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥

3.026.06

व्रातं-व्रातं गणं-गणं सुशस्तिभिर् अग्नेर् भामम् मरुताम् ओज ईमहे ।
पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥

3.026.07

अग्निर् अस्मि जन्मना जातवेदा घृतम् मे चक्षुर् अमृतम् म आसन् ।
अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥

3.026.08

त्रिभिः पवित्रैर् अपुपोद् ध्य् अ1र्कं हृदा मतिं ज्योतिर् अनु प्रजानन् ।
वर्षिष्ठं रत्नम् अकृत स्वधाभिर् आद् इद् द्यावापृथिवी पर्य् अपश्यत् ॥

3.026.09

शतधारम् उत्सम् अक्षीयमाणं विपश्चितम् पितरं वक्त्वानाम् ।
मेळिम् मदन्तम् पित्रोर् उपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc