भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.023

3.023.01

निर्मथितः सुधित आ सधस्थे युवा कविर् अध्वरस्य प्रणेता ।
जूर्यत्स्व् अग्निर् अजरो वनेष्व् अत्रा दधे अमृतं जातवेदाः ॥

3.023.02

अमन्थिष्टाम् भारता रेवद् अग्निं देवश्रवा देववातः सुदक्षम् ।
अग्ने वि पश्य बृहताभि रायेषां नो नेता भवताद् अनु द्यून् ॥

3.023.03

दश क्षिपः पूर्व्यं सीम् अजीजनन् सुजातम् मातृषु प्रियम् ।
अग्निं स्तुहि दैववातं देवश्रवो यो जनानाम् असद् वशी ॥

3.023.04

नि त्वा दधे वर आ पृथिव्या इळायास् पदे सुदिनत्वे अह्नाम् ।
दृषद्वत्याम् मानुष आपयायां सरस्वत्यां रेवद् अग्ने दिदीहि ॥

3.023.05

इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc