ऋग्वेद · अध्याय 3.022
अयं सो अग्निर् यस्मिन् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजम् अत्यं न सप्तिं ससवान् सन् स्तूयसे जातवेदः ॥
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र ।
येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाँ ऊचिषे धिष्ण्या ये ।
या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञम् अद्रुहो ऽनमीवा इषो महीः ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0