ऋग्वेद · अध्याय 3.021
इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।
स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः सम् इध्यसे यज्ञस्य प्राविता भव ॥
तुभ्यं श्चोतन्त्य् अध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
ओजिष्ठं ते मध्यतो मेद उद्भृतम् प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0