भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.020

3.020.01

अग्निम् उषसम् अश्विना दधिक्रां व्युष्टिषु हवते वह्निर् उक्थैः ।
सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥

3.020.02

अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥

3.020.03

अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य नाम ।
याश् च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥

3.020.04

अग्निर् नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
स वृत्रहा सनयो विश्ववेदाः पर्षद् विश्वाति दुरिता गृणन्तम् ॥

3.020.05

दधिक्राम् अग्निम् उषसं च देवीम् बृहस्पतिं सवितारं च देवम् ।
अश्विना मित्रावरुणा भगं च वसून् रुद्राँ आदित्याँ इह हुवे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc