भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.019

3.019.01

अग्निं होतारम् प्र वृणे मियेधे गृत्सं कविं विश्वविदम् अमूरम् ।
स नो यक्षद् देवताता यजीयान् राये वाजाय वनते मघानि ॥

3.019.02

प्र ते अग्ने हविष्मतीम् इयर्म्य् अच्छा सुद्युम्नां रातिनीं घृताचीम् ।
प्रदक्षिणिद् देवतातिम् उराणः सं रातिभिर् वसुभिर् यज्ञम् अश्रेत् ॥

3.019.03

स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥

3.019.04

भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
स आ वह देवतातिं यविष्ठ शर्धो यद् अद्य दिव्यं यजासि ॥

3.019.05

यत् त्वा होतारम् अनजन् मियेधे निषादयन्तो यजथाय देवाः ।
स त्वं नो अग्ने ऽवितेह बोध्य् अधि श्रवांसि धेहि नस् तनूषु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc