ऋग्वेद · अध्याय 3.018
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
पुरुद्रुहो हि क्षितयो जनानाम् प्रति प्रतीचीर् दहताद् अरातीः ॥
तपो ष्व् अग्ने अन्तराँ अमित्रान् तपा शंसम् अररुषः परस्य ।
तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः ॥
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावद् ईशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥
उच् छोचिषा सहसस् पुत्र स्तुतो बृहद् वयः शशमानेषु धेहि ।
रेवद् अग्ने विश्वामित्रेषु शं योर् मर्मृज्मा ते तन्व1म् भूरि कृत्वः ॥
कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः ।
स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0