भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.017

3.017.01

समिध्यमानः प्रथमानु धर्मा सम् अक्तुभिर् अज्यते विश्ववारः ।
शोचिष्केशो घृतनिर्णिक् पावकः सुयज्ञो अग्निर् यजथाय देवान् ॥

3.017.02

यथायजो होत्रम् अग्ने पृथिव्या यथा दिवो जातवेदश् चिकित्वान् ।
एवानेन हविषा यक्षि देवान् मनुष्वद् यज्ञम् प्र तिरेमम् अद्य ॥

3.017.03

त्रीण्य् आयूंषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने ।
ताभिर् देवानाम् अवो यक्षि विद्वान् अथा भव यजमानाय शं योः ॥

3.017.04

अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः ।
त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥

3.017.05

यस् त्वद् धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता स्वधया च शम्भुः ।
तस्यानु धर्म प्र यजा चिकित्वो ऽथा नो धा अध्वरं देववीतौ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc