ऋग्वेद · अध्याय 3.016
अयम् अग्निः सुवीर्यस्येशे महः सौभगस्य ।
राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥
इमं नरो मरुतः सश्चता वृधं यस्मिन् रायः शेवृधासः ।
अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुम् आदभुः ॥
स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
तुविद्युम्न वर्षिष्ठस्य प्रजावतो ऽनमीवस्य शुष्मिणः ॥
चक्रिर् यो विश्वा भुवनाभि सासहिश् चक्रिर् देवेष्व् आ दुवः ।
आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
मा नो अग्ने ऽमतये मावीरतायै रीरधः ।
मागोतायै सहसस् पुत्र मा निदे ऽप द्वेषांस्य् आ कृधि ॥
शग्धि वाजस्य सुभग प्रजावतो ऽग्ने बृहतो अध्वरे ।
सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0