ऋग्वेद · अध्याय 3.015
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहं सुहवस्य प्रणीतौ ॥
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
जन्मेव नित्यं तनयं जुषस्व स्तोमम् मे अग्ने तन्वा सुजात ॥
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्व् अग्ने अरुषो वि भाहि ।
वसो नेषि च पर्षि चात्य् अंहः कृधी नो राय उशिजो यविष्ठ ॥
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
यज्ञस्य नेता प्रथमस्य पायोर् जातवेदो बृहतः सुप्रणीते ॥
अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः ।
रथो न सस्निर् अभि वक्षि वाजम् अग्ने त्वं रोदसी नः सुमेके ॥
प्र पीपय वृषभ जिन्व वाजान् अग्ने त्वं रोदसी नः सुदोघे ।
देवेभिर् देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0