ऋग्वेद · अध्याय 3.014
आ होता मन्द्रो विदथान्य् अस्थात् सत्यो यज्वा कवितमः स वेधाः ।
विद्युद्रथः सहसस् पुत्रो अग्निः शोचिष्केशः पृथिव्याम् पाजो अश्रेत् ॥
अयामि ते नमüक्तिं जुषस्व ऋतावस् तुभ्यं चेतते सहस्वः ।
विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिर् ऊतये यजत्र ॥
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिर् अच्छ ।
यत् सीम् अञ्जन्ति पूर्व्यं हविर्भिर् आ वन्धुरेव तस्थतुर् दुरोणे ॥
मित्रश् च तुभ्यं वरुणः सहस्वो ऽग्ने विश्वे मरुतः सुम्नम् अर्चन् ।
यच् छोचिषा सहसस् पुत्र तिष्ठा अभि क्षितीः प्रथयन् सूर्यो नॄन् ॥
वयं ते अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो अग्ने ॥
त्वद् धि पुत्र सहसो वि पूर्वीर् देवस्य यन्त्य् ऊतयो वि वाजाः ।
त्वं देहि सहस्रिणं रयिं नो ऽद्रोघेण वचसा सत्यम् अग्ने ॥
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
त्वं विश्वस्य सुरथस्य बोधि सर्वं तद् अग्ने अमृत स्वदेह ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0