ऋग्वेद · अध्याय 3.013
प्र वो देवायाग्नये बर्हिष्ठम् अर्चास्मै ।
गमद् देवेभिर् आ स नो यजिष्ठो बर्हिर् आ सदत् ॥
ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
हविष्मन्तस् तम् ईळते तं सनिष्यन्तो ऽवसे ॥
स यन्ता विप्र एषां स यज्ञानाम् अथा हि षः ।
अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
स नः शर्माणि वीतये ऽग्निर् यच्छतु शंतमा ।
यतो नः प्रुष्णवद् वसु दिवि क्षितिभ्यो अप्स्व् आ ॥
दीदिवांसम् अपूर्व्यं वस्वीभिर् अस्य धीतिभिः ।
ऋक्वाणो अग्निम् इन्धते होतारं विश्पतिं विशाम् ॥
उत नो ब्रह्मन्न् अविष उक्थेषु देवहूतमः ।
शं नः शोचा मरुद्वृधो ऽग्ने सहस्रसातमः ॥
नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु ।
द्युमद् अग्ने सुवीर्यं वर्षिष्ठम् अनुपक्षितम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0