ऋग्वेद · अध्याय 3.012
इन्द्राग्नी आ गतं सुतं गीर्भिर् नभो वरेण्यम् ।
अस्य पातं धियेषिता ॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
अया पातम् इमं सुतम् ॥
इन्द्रम् अग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
ता सोमस्येह तृम्पताम् ॥
तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
इन्द्राग्नी वाजसातमा ॥
प्र वाम् अर्चन्त्य् उक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इष आ वृणे ॥
इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् ।
साकम् एकेन कर्मणा ॥
इन्द्राग्नी अपसस् पर्य् उप प्र यन्ति धीतयः ।
ऋतस्य पथ्या3 अनु ॥
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
युवोर् अप्तूर्यं हितम् ॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद् वां चेति प्र वीर्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0