भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.011

3.011.01

अग्निर् होता पुरोहितो ऽध्वरस्य विचर्षणिः ।
स वेद यज्ञम् आनुषक् ॥

3.011.02

स हव्यवाळ् अमर्त्य उशिग् दूतश् चनोहितः ।
अग्निर् धिया सम् ऋण्वति ॥

3.011.03

अग्निर् धिया स चेतति केतुर् यज्ञस्य पूर्व्यः ।
अर्थं ह्य् अस्य तरणि ॥

3.011.04

अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
वह्निं देवा अकृण्वत ॥

3.011.05

अदाभ्यः पुरएता विशाम् अग्निर् मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥

3.011.06

साह्वान् विश्वा अभियुजः क्रतुर् देवानाम् अमृक्तः ।
अग्निस् तुविश्रवस्तमः ॥

3.011.07

अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
क्षयम् पावकशोचिषः ॥

3.011.08

परि विश्वानि सुधिताग्नेर् अश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥

3.011.09

अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
त्वे देवास एरिरे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc