भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.010

3.010.01

त्वाम् अग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
देवम् मर्तास इन्धते सम् अध्वरे ॥

3.010.02

त्वां यज्ञेष्व् ऋत्विजम् अग्ने होतारम् ईळते ।
गोपा ऋतस्य दीदिहि स्वे दमे ॥

3.010.03

स घा यस् ते ददाशति समिधा जातवेदसे ।
सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥

3.010.04

स केतुर् अध्वराणाम् अग्निर् देवेभिर् आ गमत् ।
अञ्जानः सप्त होतृभिर् हविष्मते ॥

3.010.05

प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् ।
विपां ज्योतींषि बिभ्रते न वेधसे ॥

3.010.06

अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
महे वाजाय द्रविणाय दर्शतः ॥

3.010.07

अग्ने यजिष्ठो अध्वरे देवान् देवयते यज ।
होता मन्द्रो वि राजस्य् अति स्रिधः ॥

3.010.08

स नः पावक दीदिहि द्युमद् अस्मे सुवीर्यम् ।
भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥

3.010.09

तं त्वा विप्रा विपन्यवो जागृवांसः सम् इन्धते ।
हव्यवाहम् अमर्त्यं सहोवृधम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc