भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.009

3.009.01

सखायस् त्वा ववृमहे देवम् मर्तास ऊतये ।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिम् अनेहसम् ॥

3.009.02

कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः ।
न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सन्न् इहाभवः ॥

3.009.03

अति तृष्टं ववक्षिथाथैव सुमना असि ।
प्र-प्रान्ये यन्ति पर्य् अन्य आसते येषां सख्ये असि श्रितः ॥

3.009.04

ईयिवांसम् अति स्रिधः शश्वतीर् अति सश्चतः ।
अन्व् ईम् अविन्दन् निचिरासो अद्रुहो ऽप्सु सिंहम् इव श्रितम् ॥

3.009.05

ससृवांसम् इव त्मनाग्निम् इत्था तिरोहितम् ।
ऐनं नयन् मातरिश्वा परावतो देवेभ्यो मथितम् परि ॥

3.009.06

तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
विश्वान् यद् यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥

3.009.07

तद् भद्रं तव दंसना पाकाय चिच् छदयति ।
त्वां यद् अग्ने पशवः समासते समिद्धम् अपिशर्वरे ॥

3.009.08

आ जुहोता स्वध्वरं शीरम् पावकशोचिषम् ।
आशुं दूतम् अजिरम् प्रत्नम् ईड्यं श्रुष्टी देवं सपर्यत ॥

3.009.09

त्रीणि शता त्री सहस्राण्य् अग्निं त्रिंशच् च देवा नव चासपर्यन् ।
औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा आद् इद् धोतारं न्य् असादयन्त ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc