ऋग्वेद · अध्याय 3.008
अञ्जन्ति त्वाम् अध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
यद् ऊर्ध्वस् तिष्ठा द्रविणेह धत्ताद् यद् वा क्षयो मातुर् अस्या उपस्थे ॥
समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरम् ।
आरे अस्मद् अमतिम् बाधमान उच् छ्रयस्व महते सौभगाय ॥
उच् छ्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि ।
सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन् नयन्ति स्वाध्यो3 मनसा देवयन्तः ॥
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
पुनन्ति धीरा अपसो मनीषा देवया विप्र उद् इयर्ति वाचम् ॥
यान् वो नरो देवयन्तो निमिम्युर् वनस्पते स्वधितिर् वा ततक्ष ।
ते देवासः स्वरवस् तस्थिवांसः प्रजावद् अस्मे दिधिषन्तु रत्नम् ॥
ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
सजोषसो यज्ञम् अवन्तु देवा ऊर्ध्वं कृण्वन्त्व् अध्वरस्य केतुम् ॥
हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
उन्नीयमानाः कविभिः पुरस्ताद् देवा देवानाम् अपि यन्ति पाथः ॥
शृङ्गाणीवेच् छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
वाघद्भिर् वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु ॥
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
यं त्वाम् अयं स्वधितिस् तेजमानः प्रणिनाय महते सौभगाय ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0