ऋग्वेद · अध्याय 3.007
प्र य आरुः शितिपृष्ठस्य धासेर् आ मातरा विविशुः सप्त वाणीः ।
परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घम् आयुः प्रयक्षे ॥
दिवक्षसो धेनवो वृष्णो अश्वा देवीर् आ तस्थौ मधुमद् वहन्तीः ।
ऋतस्य त्वा सदसि क्षेमयन्तम् पर्य् एका चरति वर्तनिं गौः ॥
आ सीम् अरोहत् सुयमा भवन्तीः पतिश् चिकित्वान् रयिविद् रयीणाम् ।
प्र नीलपृष्ठो अतसस्य धासेस् ता अवासयत् पुरुधप्रतीकः ॥
महि त्वाष्ट्रम् ऊर्जयन्तीर् अजुर्यं स्तभूयमानं वहतो वहन्ति ।
व्य् अङ्गेभिर् दिद्युतानः सधस्थ एकाम् इव रोदसी आ विवेश ॥
जानन्ति वृष्णो अरुषस्य शेवम् उत ब्रध्नस्य शासने रणन्ति ।
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
उतो पितृभ्याम् प्रविदानु घोषम् महो महद्भ्याम् अनयन्त शूषम् ।
उक्षा ह यत्र परि धानम् अक्तोर् अनु स्वं धाम जरितुर् ववक्ष ॥
अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितम् पदं वेः ।
प्राञ्चो मदन्त्य् उक्षणो अजुर्या देवा देवानाम् अनु हि व्रता गुः ॥
दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥
वृषायन्ते महे अत्याय पूर्वीर् वृष्णे चित्राय रश्मयः सुयामाः ।
देव होतर् मन्द्रतरश् चिकित्वान् महो देवान् रोदसी एह वक्षि ॥
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवद् ऊषुः ।
उतो चिद् अग्ने महिना पृथिव्याः कृतं चिद् एनः सम् महे दशस्य ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0