ऋग्वेद · अध्याय 3.006
प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥
आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
दिवश् चिद् अग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥
द्यौश् च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
यदी विशो मानुषीर् देवयन्तीः प्रयस्वतीर् ईळते शुक्रम् अर्चिः ॥
महान् सधस्थे ध्रुव आ निषत्तो ऽन्तर् द्यावा माहिने हर्यमाणः ।
आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥
व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
त्वं दूतो अभवो जायमानस् त्वं नेता वृषभ चर्षणीनाम् ॥
ऋतस्य वा केशिना योग्याभिर् घृतस्नुवा रोहिता धुरि धिष्व ।
अथा वह देवान् देव विश्वान् स्वध्वरा कृणुहि जातवेदः ॥
दिवश् चिद् आ ते रुचयन्त रोका उषो विभातीर् अनु भासि पूर्वीः ।
अपो यद् अग्न उशधग् वनेषु होतुर् मन्द्रस्य पनयन्त देवाः ॥
उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥
ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः ।
पत्नीवतस् त्रिंशतं त्रीँश् च देवान् अनुष्वधम् आ वह मादयस्व ॥
स होता यस्य रोदसी चिद् उर्वी यज्ञं-यज्ञम् अभि वृधे गृणीतः ।
प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0