ऋग्वेद · अध्याय 3.005
प्रत्य् अग्निर् उषसश् चेकितानो ऽबोधि विप्रः पदवीः कवीनाम् ।
पृथुपाजा देवयद्भिः समिद्धो ऽप द्वारा तमसो वह्निर् आवः ॥
प्रेद् व् अग्निर् वावृधे स्तोमेभिर् गीर्भिः स्तोतॄणां नमस्य उक्थैः ।
पूर्वीर् ऋतस्य संदृशश् चकानः सं दूतो अद्यौद् उषसो विरोके ॥
अधाय्य् अग्निर् मानुषीषु विक्ष्व् अ1पां गर्भो मित्र ऋतेन साधन् ।
आ हर्यतो यजतः सान्व् अस्थाद् अभूद् उ विप्रो हव्यो मतीनाम् ॥
मित्रो अग्निर् भवति यत् समिद्धो मित्रो होता वरुणो जातवेदाः ।
मित्रो अध्वर्युर् इषिरो दमूना मित्रः सिन्धूनाम् उत पर्वतानाम् ॥
पाति प्रियं रिपो अग्रम् पदं वेः पाति यह्वश् चरणं सूर्यस्य ।
पाति नाभा सप्तशीर्षाणम् अग्निः पाति देवानाम् उपमादम् ऋष्वः ॥
ऋभुश् चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
ससस्य चर्म घृतवत् पदं वेस् तद् इद् अग्नी रक्षत्य् अप्रयुच्छन् ॥
आ योनिम् अग्निर् घृतवन्तम् अस्थात् पृथुप्रगाणम् उशन्तम् उशानः ।
दीद्यानः शुचिर् ऋष्वः पावकः पुनः-पुनर् मातरा नव्यसी कः ॥
सद्यो जात ओषधीभिर् ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
आप इव प्रवता शुम्भमाना उरुष्यद् अग्निः पित्रोर् उपस्थे ॥
उद् उ ष्टुतः समिधा यह्वो अद्यौद् वर्ष्मन् दिवो अधि नाभा पृथिव्याः ।
मित्रो अग्निर् ईड्यो मातरिश्वा दूतो वक्षद् यजथाय देवान् ॥
उद् अस्तम्भीत् समिधा नाकम् ऋष्वो3 ऽग्निर् भवन्न् उत्तमो रोचनानाम् ।
यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0