भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.004

3.004.01

समित्-समित् सुमना बोध्य् अस्मे शुचा-शुचा सुमतिं रासि वस्वः ।
आ देव देवान् यजथाय वक्षि सखा सखीन् सुमना यक्ष्य् अग्ने ॥

3.004.02

यं देवासस् त्रिर् अहन्न् आयजन्ते दिवे-दिवे वरुणो मित्रो अग्निः ।
सेमं यज्ञम् मधुमन्तं कृधी नस् तनूनपाद् घृतयोनिं विधन्तम् ॥

3.004.03

प्र दीधितिर् विश्ववारा जिगाति होतारम् इळः प्रथमं यजध्यै ।
अच्छा नमोभिर् वृषभं वन्दध्यै स देवान् यक्षद् इषितो यजीयान् ॥

3.004.04

ऊर्ध्वो वां गातुर् अध्वरे अकार्य् ऊर्ध्वा शोचींषि प्रस्थिता रजांसि ।
दिवो वा नाभा न्य् असादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥

3.004.05

सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वम् प्रति यन्न् ऋतेन ।
नृपेशसो विदथेषु प्र जाता अभी3मं यज्ञं वि चरन्त पूर्वीः ॥

3.004.06

आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा3 विरूपे ।
यथा नो मित्रो वरुणो जुजोषद् इन्द्रो मरुत्वाँ उत वा महोभिः ॥

3.004.07

दैव्या होतारा प्रथमा न्य् ऋञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
ऋतं शंसन्त ऋतम् इत् त आहुर् अनु व्रतं व्रतपा दीध्यानाः ॥

3.004.08

आ भारती भारतीभिः सजोषा इळा देवैर् मनुष्येभिर् अग्निः ।
सरस्वती सारस्वतेभिर् अर्वाक् तिस्रो देवीर् बर्हिर् एदं सदन्तु ॥

3.004.09

तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

3.004.10

वनस्पते ऽव सृजोप देवान् अग्निर् हविः शमिता सूदयाति ।
सेद् उ होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥

3.004.11

आ याह्य् अग्ने समिधानो अर्वाङ् इन्द्रेण देवैः सरथं तुरेभिः ।
बर्हिर् न आस्ताम् अदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc