ऋग्वेद · अध्याय 3.003
वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
अग्निर् हि देवाँ अमृतो दुवस्यत्य् अथा धर्माणि सनता न दूदुषत् ॥
अन्तर् दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
क्षयम् बृहन्तम् परि भूषति द्युभिर् देवेभिर् अग्निर् इषितो धियावसुः ॥
केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निम् महयन्त चित्तिभिः ।
अपांसि यस्मिन्न् अधि संदधुर् गिरस् तस्मिन् सुम्नानि यजमान आ चके ॥
पिता यज्ञानाम् असुरो विपश्चितां विमानम् अग्निर् वयुनं च वाघताम् ।
आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥
चन्द्रम् अग्निं चन्द्ररथं हरिव्रतं वैश्वानरम् अप्सुषदं स्वर्विदम् ।
विगाहं तूर्णिं तविषीभिर् आवृतम् भूर्णिं देवास इह सुश्रियं दधुः ॥
अग्निर् देवेभिर् मनुषश् च जन्तुभिस् तन्वानो यज्ञम् पुरुपेशसं धिया ।
रथीर् अन्तर् ईयते साधदिष्टिभिर् जीरो दमूना अभिशस्तिचातनः ॥
अग्ने जरस्व स्वपत्य आयुन्य् ऊर्जा पिन्वस्व सम् इषो दिदीहि नः ।
वयांसि जिन्व बृहतश् च जागृव उशिग् देवानाम् असि सुक्रतुर् विपाम् ॥
विश्पतिं यह्वम् अतिथिं नरः सदा यन्तारं धीनाम् उशिजं च वाघताम् ।
अध्वराणां चेतनं जातवेदसम् प्र शंसन्ति नमसा जूतिभिर् वृधे ॥
विभावा देवः सुरणः परि क्षितीर् अग्निर् बभूव शवसा सुमद्रथः ।
तस्य व्रतानि भूरिपोषिणो वयम् उप भूषेम दम आ सुवृक्तिभिः ॥
वैश्वानर तव धामान्य् आ चके येभिः स्वर्विद् अभवो विचक्षण ।
जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूर् असि त्मना ॥
वैश्वानरस्य दंसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः ।
उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0