ऋग्वेद · अध्याय 3.002
वैश्वानराय धिषणाम् ऋतावृधे घृतं न पूतम् अग्नये जनामसि ।
द्विता होतारम् मनुषश् च वाघतो धिया रथं न कुलिशः सम् ऋण्वति ॥
स रोचयज् जनुषा रोदसी उभे स मात्रोर् अभवत् पुत्र ईड्यः ।
हव्यवाळ् अग्निर् अजरश् चनोहितो दूळभो विशाम् अतिथिर् विभावसुः ॥
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
रुरुचानम् भानुना ज्योतिषा महाम् अत्यं न वाजं सनिष्यन्न् उप ब्रुवे ॥
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजम् ऋग्मियम् ।
रातिम् भृगूणाम् उशिजं कविक्रतुम् अग्निं राजन्तं दिव्येन शोचिषा ॥
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसम् इह वृक्तबर्हिषः ।
यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिम् अपसाम् ॥
पावकशोचे तव हि क्षयम् परि होतर् यज्ञेषु वृक्तबर्हिषो नरः ।
अग्ने दुव इच्छमानास आप्यम् उपासते द्रविणं धेहि तेभ्यः ॥
आ रोदसी अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो अधारयन् ।
सो अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥
नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
रथीर् ऋतस्य बृहतो विचर्षणिर् अग्निर् देवानाम् अभवत् पुरोहितः ॥
तिस्रो यह्वस्य समिधः परिज्मनो ऽग्नेर् अपुनन्न् उशिजो अमृत्यवः ।
तासाम् एकाम् अदधुर् मर्त्ये भुजम् उ लोकम् उ द्वे उप जामिम् ईयतुः ॥
विशां कविं विश्पतिम् मानुषीर् इषः सं सीम् अकृण्वन् स्वधितिं न तेजसे ।
स उद्वतो निवतो याति वेविषत् स गर्भम् एषु भुवनेषु दीधरत् ॥
स जिन्वते जठरेषु प्रजज्ञिवान् वृषा चित्रेषु नानदन् न सिंहः ।
वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥
वैश्वानरः प्रत्नथा नाकम् आरुहद् दिवस् पृष्ठम् भन्दमानः सुमन्मभिः ।
स पूर्ववज् जनयञ् जन्तवे धनं समानम् अज्मम् पर्य् एति जागृविः ॥
ऋतावानं यज्ञियं विप्रम् उक्थ्य1म् आ यं दधे मातरिश्वा दिवि क्षयम् ।
तं चित्रयामं हरिकेशम् ईमहे सुदीतिम् अग्निं सुविताय नव्यसे ॥
शुचिं न यामन्न् इषिरं स्वर्दृशं केतुं दिवो रोचनस्थाम् उषर्बुधम् ।
अग्निम् मूर्धानं दिवो अप्रतिष्कुतं तम् ईमहे नमसा वाजिनम् बृहत् ॥
मन्द्रं होतारं शुचिम् अद्वयाविनं दमूनसम् उक्थ्यं विश्वचर्षणिम् ।
रथं न चित्रं वपुषाय दर्शतम् मनुर्हितं सदम् इद् राय ईमहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0