ऋग्वेद · अध्याय 3.001
सोमस्य मा तवसं वक्ष्य् अग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवाँ अच्छा दीद्यद् युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥
प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिर् अग्निं नमसा दुवस्यन् ।
दिवः शशासुर् विदथा कवीनां गृत्साय चित् तवसे गातुम् ईषुः ॥
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर् जनुषा पृथिव्याः ।
अविन्दन्न् उ दर्शतम् अप्स्व् अ1न्तर् देवासो अग्निम् अपसि स्वसॄणाम् ॥
अवर्धयन् सुभगं सप्त यह्वीः श्वेतं जज्ञानम् अरुषम् महित्वा ।
शिशुं न जातम् अभ्य् आरुर् अश्वा देवासो अग्निं जनिमन् वपुष्यन् ॥
शुक्रेभिर् अङ्गै रज आततन्वान् क्रतुम् पुनानः कविभिः पवित्रैः ।
शोचिर् वसानः पर्य् आयुर् अपां श्रियो मिमीते बृहतीर् अनूनाः ॥
वव्राजा सीम् अनदतीर् अदब्धा दिवो यह्वीर् अवसाना अनग्नाः ।
सना अत्र युवतयः सयोनीर् एकं गर्भं दधिरे सप्त वाणीः ॥
स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
अस्थुर् अत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
बभ्राणः सूनो सहसो व्य् अद्यौद् दधानः शुक्रा रभसा वपूंषि ।
श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
पितुश् चिद् ऊधर् जनुषा विवेद व्य् अस्य धारा असृजद् वि धेनाः ।
गुहा चरन्तं सखिभिः शिवेभिर् दिवो यह्वीभिर् न गुहा बभूव ॥
पितुश् च गर्भं जनितुश् च बभ्रे पूर्वीर् एको अधयत् पीप्यानाः ।
वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये3 नि पाहि ॥
उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
ऋतस्य योनाव् अशयद् दमूना जामीनाम् अग्निर् अपसि स्वसॄणाम् ॥
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
उद् उस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
अपां गर्भं दर्शतम् ओषधीनां वना जजान सुभगा विरूपम् ।
देवासश् चिन् मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
बृहन्त इद् भानवो भाऋजीकम् अग्निं सचन्त विद्युतो न शुक्राः ।
गुहेव वृद्धं सदसि स्वे अन्तर् अपार ऊर्वे अमृतं दुहानाः ॥
ईळे च त्वा यजमानो हविर्भिर् ईळे सखित्वं सुमतिं निकामः ।
देवैर् अवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिर् अनीकैः ॥
उपक्षेतारस् तव सुप्रणीते ऽग्ने विश्वानि धन्या दधानाः ।
सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँर् अदेवान् ॥
आ देवानाम् अभवः केतुर् अग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
प्रति मर्ताँ अवासयो दमूना अनु देवान् रथिरो यासि साधन् ॥
नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
घृतप्रतीक उर्विया व्य् अद्यौद् अग्निर् विश्वानि काव्यानि विद्वान् ॥
आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ।
अस्मे रयिम् बहुलं संतरुत्रं सुवाचम् भागं यशसं कृधी नः ॥
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
महान्ति वृष्णे सवना कृतेमा जन्मञ्-जन्मन् निहितो जातवेदाः ॥
जन्मञ्-जन्मन् निहितो जातवेदा विश्वामित्रेभिर् इध्यते अजस्रः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
प्र यंसि होतर् बृहतीर् इषो नो ऽग्ने महि द्रविणम् आ यजस्व ॥
इळाम् अग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0