ऋग्वेद · अध्याय 2.040
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा ।
आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् ।
विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
दिव्य् अ1न्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे ।
ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ॥
विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति ।
सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ॥
धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु ।
अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0