ऋग्वेद · अध्याय 2.036
तुभ्यं हिन्वानो वसिष्ट गा अपो ऽधुक्षन् सीम् अविभिर् अद्रिभिर् नरः ।
पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्राद् आ सोमम् प्रथमो य ईशिषे ॥
यज्ञैः सम्मिश्लाः पृषतीभिर् ऋष्टिभिर् यामञ् छुभ्रासो अञ्जिषु प्रिया उत ।
आसद्या बर्हिर् भरतस्य सूनवः पोत्राद् आ सोमम् पिबता दिवो नरः ॥
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥
आ वक्षि देवाँ इह विप्र यक्षि चोशन् होतर् नि षदा योनिषु त्रिषु ।
प्रति वीहि प्रस्थितं सोम्यम् मधु पिबाग्नीध्रात् तव भागस्य तृप्णुहि ॥
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर् हितः ।
तुभ्यं सुतो मघवन् तुभ्यम् आभृतस् त्वम् अस्य ब्राह्मणाद् आ तृपत् पिब ॥
जुषेथां यज्ञम् बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
अच्छा राजाना नम एत्य् आवृतम् प्रशास्त्राद् आ पिबतं सोम्यम् मधु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0