भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.035

2.035.01

उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ॥

2.035.02

इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् ।
अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ॥

2.035.03

सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति ।
तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ॥

2.035.04

तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः ।
स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ॥

2.035.05

अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् ।
कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥

2.035.06

अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ॥

2.035.07

स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति ।
सो अपां नपाद् ऊर्जयन्न् अप्स्व् अ1न्तर् वसुदेयाय विधते वि भाति ॥

2.035.08

यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ॥

2.035.09

अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः ।
तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ॥

2.035.10

हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः ।
हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ॥

2.035.11

तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् ।
यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ॥

2.035.12

अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः ।
सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ॥

2.035.13

स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति ।
सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ॥

2.035.14

अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् ।
आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ॥

2.035.15

अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc