भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.034

2.034.01

धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास् तविषीभिर् अर्चिनः ।
अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥

2.034.02

द्यावो न स्तृभिश् चितयन्त खादिनो व्य् अ1भ्रिया न द्युतयन्त वृष्टयः ।
रुद्रो यद् वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥

2.034.03

उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस् तुरयन्त आशुभिः ।
हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥

2.034.04

पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदम् आ जीरदानवः ।
पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥

2.034.05

इन्धन्वभिर् धेनुभी रप्शदूधभिर् अध्वस्मभिः पथिभिर् भ्राजदृष्टयः ।
आ हंसासो न स्वसराणि गन्तन मधोर् मदाय मरुतः समन्यवः ॥

2.034.06

आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
अश्वाम् इव पिप्यत धेनुम् ऊधनि कर्ता धियं जरित्रे वाजपेशसम् ॥

2.034.07

तं नो दात मरुतो वाजिनं रथ आपानम् ब्रह्म चितयद् दिवे-दिवे ।
इषं स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधाम् अरिष्टं दुष्टरं सहः ॥

2.034.08

यद् युञ्जते मरुतो रुक्मवक्षसो ऽश्वान् रथेषु भग आ सुदानवः ।
धेनुर् न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीम् इषम् ॥

2.034.09

यो नो मरुतो वृकताति मर्त्यो रिपुर् दधे वसवो रक्षता रिषः ।
वर्तयत तपुषा चक्रियाभि तम् अव रुद्रा अशसो हन्तना वधः ॥

2.034.10

चित्रं तद् वो मरुतो याम चेकिते पृश्न्या यद् ऊधर् अप्य् आपयो दुहुः ।
यद् वा निदे नवमानस्य रुद्रियास् त्रितं जराय जुरताम् अदाभ्याः ॥

2.034.11

तान् वो महो मरुत एवयाव्नो विष्णोर् एषस्य प्रभृथे हवामहे ।
हिरण्यवर्णान् ककुहान् यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥

2.034.12

ते दशग्वाः प्रथमा यज्ञम् ऊहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
उषा न रामीर् अरुणैर् अपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥

2.034.13

ते क्षोणीभिर् अरुणेभिर् नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥

2.034.14

ताँ इयानो महि वरूथम् ऊतय उप घेद् एना नमसा गृणीमसि ।
त्रितो न यान् पञ्च होतॄन् अभिष्टय आववर्तद् अवराञ् चक्रियावसे ॥

2.034.15

यया रध्रम् पारयथात्य् अंहो यया निदो मुञ्चथ वन्दितारम् ।
अर्वाची सा मरुतो या व ऊतिर् ओ षु वाश्रेव सुमतिर् जिगातु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc