भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.026

2.026.01

ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् ।
सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ॥

2.026.02

यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये ।
हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ॥

2.026.03

स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः ।
देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥

2.026.04

यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः ।
उरुष्यतीम् अंहसो रक्षती रिषो3 ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc