भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.025

2.025.01

इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्य इत् ।
जातेन जातम् अति स प्र सर्सृते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥

2.025.02

वीरेभिर् वीरान् वनवद् वनुष्यतो गोभी रयिम् पप्रथद् बोधति त्मना ।
तोकं च तस्य तनयं च वर्धते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥

2.025.03

सिन्धुर् न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँर् अभि वष्ट्य् ओजसा ।
अग्नेर् इव प्रसितिर् नाह वर्तवे यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥

2.025.04

तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
अनिभृष्टतविषिर् हन्त्य् ओजसा यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥

2.025.05

तस्मा इद् विश्वे धुनयन्त सिन्धवो ऽच्छिद्रा शर्म दधिरे पुरूणि ।
देवानां सुम्ने सुभगः स एधते यं-यं युजं कृणुते ब्रह्मणस् पतिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc