भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.024

2.024.01

सेमाम् अविड्ढि प्रभृतिं य ईशिषे ऽया विधेम नवया महा गिरा ।
यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥

2.024.02

यो नन्त्वान्य् अनमन् न्य् ओजसोतादर्दर् मन्युना शम्बराणि वि ।
प्राच्यावयद् अच्युता ब्रह्मणस् पतिर् आ चाविशद् वसुमन्तं वि पर्वतम् ॥

2.024.03

तद् देवानां देवतमाय कर्त्वम् अश्रथ्नन् दृळ्हाव्रदन्त वीळिता ।
उद् गा आजद् अभिनद् ब्रह्मणा वलम् अगूहत् तमो व्य् अचक्षयत् स्वः ॥

2.024.04

अश्मास्यम् अवतम् ब्रह्मणस् पतिर् मधुधारम् अभि यम् ओजसातृणत् ।
तम् एव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुर् उत्सम् उद्रिणम् ॥

2.024.05

सना ता का चिद् भुवना भवीत्वा माद्भिः शरद्भिर् दुरो वरन्त वः ।
अयतन्ता चरतो अन्यद्-अन्यद् इद् या चकार वयुना ब्रह्मणस् पतिः ॥

2.024.06

अभिनक्षन्तो अभि ये तम् आनशुर् निधिम् पणीनाम् परमं गुहा हितम् ।
ते विद्वांसः प्रतिचक्ष्यानृता पुनर् यत उ आयन् तद् उद् ईयुर् आविशम् ॥

2.024.07

ऋतावानः प्रतिचक्ष्यानृता पुनर् आत आ तस्थुः कवयो महस् पथः ।
ते बाहुभ्यां धमितम् अग्निम् अश्मनि नकिः षो अस्त्य् अरणो जहुर् हि तम् ॥

2.024.08

ऋतज्येन क्षिप्रेण ब्रह्मणस् पतिर् यत्र वष्टि प्र तद् अश्नोति धन्वना ।
तस्य साध्वीर् इषवो याभिर् अस्यति नृचक्षसो दृशये कर्णयोनयः ॥

2.024.09

स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस् पतिः ।
चाक्ष्मो यद् वाजम् भरते मती धनाद् इत् सूर्यस् तपति तप्यतुर् वृथा ॥

2.024.10

विभु प्रभु प्रथमम् मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥

2.024.11

यो ऽवरे वृजने विश्वथा विभुर् महाम् उ रण्वः शवसा ववक्षिथ ।
स देवो देवान् प्रति पप्रथे पृथु विश्वेद् उ ता परिभूर् ब्रह्मणस् पतिः ॥

2.024.12

विश्वं सत्यम् मघवाना युवोर् इद् आपश् चन प्र मिनन्ति व्रतं वाम् ।
अच्छेन्द्राब्रह्मणस्पती हविर् नो ऽन्नं युजेव वाजिना जिगातम् ॥

2.024.13

उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
वीळुद्वेषा अनु वश ऋणम् आददिः स ह वाजी समिथे ब्रह्मणस् पतिः ॥

2.024.14

ब्रह्मणस् पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः ।
यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥

2.024.15

ब्रह्मणस् पते सुयमस्य विश्वहा रायः स्याम रथ्यो3 वयस्वतः ।
वीरेषु वीराँ उप पृङ्धि नस् त्वं यद् ईशानो ब्रह्मणा वेषि मे हवम् ॥

2.024.16

ब्रह्मणस् पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc